एकदा भोजनरेशः सैनिकान् आहूय आदिशत् भोः मम राज्ये सर्व एव जनाः कविकर्मनिपुणाः सन्ति। तर्हि यदि कश्चिज्जातीयः कविकर्मपराङमुखः भवेत् तं गृहीत्वा आनीयताम् मम सम्मुखे इति।सैनिकाः अपि अन्वेषणं कृत्वा एकं सौचिकं आनीतवन्तः।राजा तं उद्दिश्य अवदत् अयि सौचिक! किं काव्यं न करोसि तर्हि सः वदति-
काव्यं करोमि नहि चारुतरं करोमि,यत्नाद् करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमन्डितपादपीठ,हे साहसाङक! कवयामि वयामि यामि॥
एतादृशे भारतवर्षे यत्र सर्वेऽपि संस्कृतेन कविकर्मं कुर्वन्तः आसन् तत्रैव संस्कृतस्य वक्तारः न प्राप्यन्ते इति महाकष्टम्।
अतः सरलैः वा वाक्यैः वदन्तु किन्तु संस्कृतेन वदन्तु इति मम निवेदनम् अस्ति।
सर्वेभ्यः स्वस्ति भूयात्।
या सृष्टुः सृष्टिराद्या वहतिविधिहुतं या हविर्या च होत्री
ReplyDeleteये द्वे कालं विधत्तः श्रुतिविषयगुणा स्थिता या व्याप्य विश्वम्।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः,
प्रत्यक्षाभिस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥