पानीयं पातुमिच्छामि त्वत्तः कमललोचने।
यदि दास्यसि नेच्छामि न दास्यसि पिबामि चेत्॥
अत्र यण् सन्धेः प्रयोगः दर्शनीयः।दासी+असि=दास्यसि।अत्र श्लोके यण् सन्धिः वैचित्र्यम् उत्पादयति।॥१॥
ददाह हनुमताऽरामः सीता हर्षनिर्भरा।
राक्षसा रुरुदुः सर्वे हा हाऽऽराम हतो हतः॥
अत्र आराम =प्रासाद:,भवनः वा इत्यस्मिन् स्थाने राम इति अर्थस्य भ्रमः भवति।अत्रापि सन्धि वैचित्र्यम् अस्ति॥२॥पाण्डवानां सभामध्ये दुर्योऽधनः समागतः।
तस्मै हिरण्यं च गां च ददुः आभरणानि च॥
अत्र पाण्डवानां सभामध्ये दुर्योधनः धनाय गतवान् इति न मन्तव्यम्।अपितु यः अति दरिद्रः आसीत् =दुर्+यः+अधनः,तं ते धनानि दत्तवन्तः इति मन्तव्यम्।३॥
प्रहेलिकां पृच्छामः किं-
अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुट्वक्ता च यः जानाति स पण्डितः॥
अर्थात् पाद विहीनः अस्ति तथापि बहु दूरं गच्छति।साक्षरोऽपि सन् पण्डितः नास्ति।मुखं नास्ति तथापि स्फुट्तया वदति।यः उत्तरं जानाति सः पण्डितः अस्ति॥४॥
वटवृक्षो महानेष मार्गमवरुध्य तिष्ठति।
तावत् त्वया न गन्तव्यं यावदन्यत्र न गच्छति॥
अत्र वटु शब्दस्य सम्बोधनस्य रुपं वटो इति अस्ति।वटो इति रूपस्य पश्चात् ॠक्षः अस्ति।उभयोः सन्धिः भवति तदा वटवृक्षः इति भवति।वटवृक्षः इत्युक्ते वटतरुः इति भ्रमः भवति॥५॥
केशवं पतितं दृष्ट्वा द्रोणः हर्षमुपागतः।
रुदन्ति कौरवा सर्वे हा! हा! केशव केशव॥६॥
अर्थात् जलमध्ये यदा शवस्य प्रवाहः भवति तदा काकः हर्षं प्राप्नोति।किन्तु ये कौरवा: शृगालाः वा भवन्ति ते तु अति गभीरे जले गन्तुं न पारयन्ति अतः दूरादेव पश्यन्ति रोदनं वा कुर्वन्ति इति आशयः वर्तते।॥६॥
राज्याभिषेके जलमानयन्त्याः,कुक्ष्याचितो हेमघटस्तरुण्यः।
सोपानमासादि चकार शब्दं टटं टटं टं टटटं टटं टम्॥७॥
सोपानमासादि चकार शब्दं टटं टटं टं टटटं टटं टम्॥७॥
एकवारं विक्रमादित्यसभायां सर्वे विद्वांसः उपविष्टाः आसन्।राजा विक्रमादित्यः किंचित विनोदमुद्रायाम् आसीत्।सः अवदत् भोः मम मनसि कस्यचित् पद्यस्य पादमेकम् अस्ति।किन्तु सम्पूर्णं पद्यं न जानामि किं अस्ति ।तर्हि टटं टटं टं टटटं टटं टम् इति पादं स्वीकृत्य पद्यं निर्मयन्तु भवन्तः।सर्वेऽपि निरुत्तराःएकैकस्य मुखं पश्यन्तः आसन्।यदा राजा कालिदासं सम्बोधयति तदा सः उत्थाय उपर्युक्तं पद्यं श्रावयित्वा स्वकीयं आशुकवित्वं दर्शयति।एतादृशी प्रतिभा
सर्वेषां भवेद्भारतवर्षे इति सरस्वतीं देवीं प्रार्थयामि।॥७॥
सर्वेषां भवेद्भारतवर्षे इति सरस्वतीं देवीं प्रार्थयामि।॥७॥
कश्चित् प्रत्युत्पन्नमति: कविः भगवतः श्रीकृष्णस्य दानशीलतायाः विषये वैचित्त्र्येण वर्णयति तद्यथा-
आदौ नकारः परतो नकारः,मध्ये नकारेण हतो दकारः।
एवं नकारत्रयसंस्थितस्य का दान शक्तिः खलु नन्दनस्य॥८॥
कविः वदति हे नन्दन! भवतः (नामस्य) अग्रे नकारः(न दास्यामि)अस्ति।भवतः (नामस्य) अन्ते अपि नकारः(न दास्यामि)इति अस्ति।मध्ये यद्वराकः दकारः(दास्यामि)अस्ति सोऽपि नकारेण हतोऽस्ति,पृष्ठतः वा क्रियते।अतः भवति किमपि दानशक्तिः नास्ति इति सूच्यते॥८॥
केदारपोषणरताः? काशीतलाम्बुवाहिनी गङ्गा?।
कं संजघान कृष्णः? कं बलवन्तं न बाधते शीतम्?॥९॥

अत्र प्रश्नवाक्येषु एव उत्तरं पिहितमस्ति यथा के दारपोषणरताः?=केदारपोषणरताः(अर्थात् क्षेत्रनलिकाः क्षेत्राणां पोषणे (सेचने)रताः भवन्ति।शीतलजलवाहिनी गङ्गा का?=काशीतलाम्बुवाहिनी अर्थात् या काश्यां वहति सा (शीतल जलयुक्ता)नदी गङ्गा अस्ति।कृष्णः कं संजघान? कृष्णः कंसं संजघान।कं बलवन्तं शीतं न बाधते?कंबलवन्तं (यस्य पार्श्वे कंबलं भवति तं) शीतं न बाधते।इत्येवं प्रकारेण प्रश्नोत्तरं एकस्मिन्नेव वाक्ये निगूढं भवति।
एकोनाविंशतिः स्त्रीणां स्नानार्थं नदीं गतः।
विंशतिः पुनरायाता चैको व्याघ्रेण भक्षितः॥१०॥
अत्र पद्यं पठित्वा मनसि स्त्रीणां ऊनविंशतिः स्नानाय नदीं प्रति गतः इति आगच्छति।किन्तु यदि स्त्रीणां ऊनविंशतिः स्नानार्थं गतः पुनः विंशतिः आगतः इति अर्थः नैव संगच्छते।अतः नृ शब्दस्य तृतीयान्त रूपं ना इति मन्तव्यं विंशतेः प्राक्। तर्हि अर्थः भवति एकेन पुरुषेण सह विंशतिस्त्रीणां समूहः गतः।तत्र पुरुषः तु व्याघ्रेण भक्षितः किंतु स्त्रीणां समूहः कुशलतया प्रत्यावर्तितः॥१०॥

No comments:
Post a Comment