श्रीछिन्नमस्तका
अष्टोत्तरशतनाम स्तोत्रम्
पार्वत्युवाच - नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम्।
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि।
श्री सदाशिव उवाच - अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा।
प्रत्यालीढ पदां सदैव दधतीं
दक्षेचाऽति सिता विमुक्त विकुरा
प्रत्यालीढ पदां कबंध विगलत रक्तं पिबंतीं मुदा।
महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी।
कोपातुरा कोपयुता जोप-संहार-कारिणी ।
डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता।
खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी ।
छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी ।
योगिनी योग-निरता जप-यज्ञ-परायणा।
योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी ।
कीर्त्या कपर्दिनी: काली कङ्काली कल-कारिणी।
भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी ।
भीमा भीमेश्वरी देवी भीम-नाद-परायणा ।
भद्रकाली भद्र तनुर्भद्र-रूपा च भद्रिका।
सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता ।
शुभदा शुभगा शुद्धा शुद्ध-सत्वा-शुभावहा ।
शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी ।
इति ते कथितं देवि स्तोत्रं परम-दुर्लभम्।
किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे।
स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च।
महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः।
अष्टोत्तरशतनाम स्तोत्रम्
पार्वत्युवाच - नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम्।
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम्।।1।।
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि।
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत्।।2।।
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय।
श्री सदाशिव उवाच - अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा।
सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम्
विनियोगः- ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाम-स्तोत्रस्य सदाशिवऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवतामम-सकल-सिद्धि-प्राप्तये जपे विनियोगः।
ध्यानम्
प्रत्यालीढ पदां सदैव दधतीं
छिन्नं शिर: कर्तृकां।
दिग्वस्त्रां स्वकबंध शोणित सुधा
धारां पिबन्तीं मुदा
नागाबद्ध शिरोमणि त्रिनयनां
हृद्युत्पलालंकृतां।
रत्यासक्त मनोभवो परिदृढान
ध्यायेत् जवा सन्निभाम्।।1।।
दक्षेचाऽति सिता विमुक्त विकुरा
कत्र्री तथा खप्परे।
हस्ताभ्यां दधती रजोगुण भवा
नाम्नाऽपि या वर्णिनी।।
देव्याश्छिन्न कबन्धत: पतद्सृग
धारां पिबंतीं मुदा।
नागाबद्ध शिरोमणिं मनुविदा
ध्येया सदा सा सुरै:।।2।।
प्रत्यालीढ पदां कबंध विगलत रक्तं पिबंतीं मुदा।
सैषा सा प्रलये समस्त भुवनं
भोक्तुं क्षमा तामसी।।
शक्ति: साऽपि परात्परा भगवती
नाम्ना परा डाकिनी।
ध्येया ध्यान परै: सदा सविनयं
भक्तेष्ट भूतिप्रदा।।3।।
स्तोत्रम्
No comments:
Post a Comment